Skip to main content

Posts

Showing posts with the label Sanskrit

त्वमेव त्वमेव असु असि

तव नाम्नः जपम् करोमि, त्वमेव त्वमेव वसु असि | तव रूपस्य ध्यानं करोमि, त्वमेव त्वमेव असु असि || निष्ठुरशब्दाः तव मुखे सुगन्धि भवन्ति, किम् खादसि? तव आमोदे सदा मुह्यामि, त्वमेव त्वमेव असु असि || मिथ्याहेतु मन्दस्वरेण अद्भुताख्यानानि कथयसि त्वम् | मधुरवाणीम् नित्यम् शृणोमि, त्वमेव त्वमेव असु असि || निष्फलारण्य तव संनिधौ निःशेषकुसुमिन भवति | सर्वत्र त्वाम् अवलोकयामि, त्वमेव त्वमेव असु असि || संमृशामि नभः मम अनुरागान् अङ्गीकरोषि यदा | मन्मथेन जगते मुच्छामि त्वमेव त्वमेव असु असि || ददासि हस्तात् यम् आपस्तोक‌म् अस्ति भावित अमृतबिन्दु | तव अनुकम्पायै तृष्यामि, त्वमेव त्वमेव असु असि || या अन्येभ्यः शीर्ण‌वासना, मम चक्ष्वोः अनुजीवति | सर्वदा स्मरामि रामेशः, त्वमेव त्वमेव असु असि || एषः कृति उमर बहुभाषीय रूपांन्तरक उपकारेण‌ देवनागर्याम् टङ्कित अस्ती| Published in Amaravati Poetic Prism 2017 ed. Padmaja Iyengar, Cultural Centre of Vijayawada & Amaravati